________________
गोमहिमावर्णनम् ।
शृङ्गा सर्वतीर्थानि स्थावराणि चराणि च । सर्वे देवाः स्थिता देहे सर्वदेवमयी हि गौः ||३५ ललाटाग्रे स्थिता देवी नासामध्ये तु षण्मुखः । कम्बलाश्वतरौ नागौ तत्कर्णाभ्यां व्यवस्थितौ ॥३६ स्थितौ तस्याश्च सौरभ्याश्चक्षुषोः शशिभास्करौ 1 दन्तेषु वसवश्चाष्टौ जिह्वायां वरुणः स्थितः || ३७ सरस्वती च हुंकारे यम-यक्षौ च गण्डयोः । ऋषयो रोमकूपेषु प्रस्र।वे जाह्नवीजलम् ॥३८ कालिन्दी गोमये तस्या अपरा देवतास्तथा । अष्टाविंशतिदेवानां कोट्यो लोमसु ताः स्थिताः || ३६ उदरे गार्हपत्योऽग्निर्हदये दक्षिणस्तथा । मुखे चाहवनीयस्तु सभ्याssवसथ्यौ च कुक्षिषु ||४० एवं यो वर्तते गोषु ताडनक्रोधवर्जितः । महतीं श्रियमाप्नोति स्वर्गलोके महीयते ॥४१ कुलं तस्या न शङ्क ेत पूतिगन्धं न वर्जयेत् । यावत् पिबति तद्दुग्धं तावत् पुण्यं प्रवर्धते ॥ ४२ यो गां पयस्विनीं दद्यात्तरुणां वत्ससंयुताम् । शिवस्यायतने दत्त्वा दत्तं तेन तु विश्वकम् ||४३
इति गोमहिमावर्णनम् ।
ऽध्यायः ]
1:00:1
७३६