SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ बृहत्पराशरस्मृतिः। [पञ्चमोनरकानौ प्रपच्यन्ते गोनिःश्वासप्रपीडिताः । सपलाशेन शुष्कग ता दण्डेन निर्वतयेत् ॥२४ गच्छ गच्छेति तां ब्रूयान् मा मा भैरिति वारयेत् । संस्पृशन गां नमस्कृत्य कुर्यात्तां च प्रदक्षिणम् ॥२५ प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा । तृणोदकादिसंयुक्तं यः प्रदद्याद्वाह्निकम् ।।२६ सोऽश्वमेधसमं पुण्यं लभते नात्र संशयः। गवां कण्डूयनं स्नानं गवां दानसमं भवेत् ।।२७ तुल्यं गोशतदानस्य भयतो गां प्रपाति यः। पृथिव्यां यानि तीर्थानि आसमुद्रं सरांसि च ।।२८ गवां शृङ्गोदकनान कलां नार्हन्ति षोडशीम् । पातकानि कुतस्तेषां येषां गृहमलंकृतम् ॥२६ सततं बालवत्साभिगोभिः श्रीभिरिव स्वयम् । ब्राह्मणाश्चैव गावश्व कुलमेकं द्विधा कृतम् ॥३० तिष्ठन्त्येकत्र मन्त्रास्तु हविरेकत्र तिष्ठति । गोभिर्यज्ञाः प्रवर्तन्ते गोभिर्देवाः प्रतिष्ठिताः ॥३१ गोभिर्वेदाः समुद्रीर्णाः षडङ्गाः सपद-क्रमाः । सौरभेयास्तु यस्याने पृष्ठतो यस्य ताः स्थिताः ।।३२ वसन्ति हृदये नित्यं तासां मध्ये वसन्ति ये। ते पुण्यपुषाः क्षोण्यां नाकेऽपि दुर्लभाश्च ते ॥३३ ये गोभक्तिकरा नित्यं भवन्ते ये च गोप्रदाः । शृङ्गमूले स्थितो ब्रह्मा शृङ्गमध्ये तु केशवः । माने शंकर विद्यालयो देवाः प्रतिष्ठिताः ॥३४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy