________________
वृहत्पराशरस्मृतिः। [पचमो
अथ समहत्त्ववृषभपूजनवर्णनम्। उक्षाणो वेबसा सृष्टाः सस्पस्योत्पादनाय च । तैरुत्पादिससस्येन सर्वमेतद्विधार्यते ॥४४ यश्वेतान् पालयेद्यनायेचैव यत्नतः । जगन्ति तेन सर्वाणि साक्षात् खुः पालितानि च ॥४५ यावद्गोपालने पुण्यमुक्तं पूर्वमनीषिभिः । उक्ष्णोऽपि पालेन तेषां फलं दशगुण भक्त् ॥४६ जगदेतद्धृत सर्वममडुद्भिश्वराचरम् ॥४७ वृष एव ततो रक्ष्यः पालनीयश्च सर्वदा । धर्मोऽयं मूतले साक्षाद् ब्रह्मणा बवतारितः ।।४८ त्रैलोक्यधारणायालमनानां च प्रसूतये । अनादेवानि घासानि विघसन्ति स्वकामतः IME भ्रमित्वा भूतलं दूरमुक्षाण को न पूजयेत् । उत्पादयन्ति सस्यानि मर्दयन्ति वहन्ति च ।
आनयन्ति दवीयस्तदुक्षतः कोऽधिको मुवि ॥५० स्कन्धेन दूराच वहन्ति भारमाख्याति पत्युन च भारयुक्ताः । स्वीयेन देहेन परस्य जीवान्पुष्यन्ति रक्षन्ति च वर्षयन्ति ॥५१ पुण्यास्तु गावो वसुधातले या विभ्रत्यमुं गोवृषगर्भभारम् । भारःपृथिव्या दशताडिताया एकस्य चोक्ष्णो ह्यपि साधुवाचः।।५२ एकेन दत्तेन वृषेण येन भवन्ति दत्ता दश सौरभेय्यः । माहेस्यपीयं धरणीसमाना तस्मादृषात् पूज्यतमोऽस्ति नान्यः।।५३