SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [पञ्चमोहीनाङ्गं व्याधिसंयुक्तं प्राणहीनं च दुर्बलम्। . क्षुद्युक्तं तृषितं श्रान्तमनडाहं न वाहयेत् ॥३ स्थिराङ्ग नीरुजं तृप्त साण्डं षण्ढविवर्जितम् । अधृष्यं सबलप्राणमनड़ाहं तु वाहयेत् ॥४ वाहयेद् दिवसस्याघ ततः स्नानं समाचरेत् । कुगर्न कृषि कुर्यात् सर्वथा धेनुसंग्रहम् ॥५ बन्धनं पालनं रक्षा द्विजः कुर्याद्गृही गवाम् । वत्साश्च यत्नतो रक्ष्या वर्धन्ते ते यथा क्रमात् ॥६ न दूरे वास्तु नेवव्याश्चारणाय कदाचन । दूरे गावश्चरन्त्यो हि न भवन्ति शुभावहाः ॥७ प्रातरेव हि दोग्धव्या दुधात् सायं न ता गृही। दोन्धुद्धिः पयसो नैव वर्धन्ते ताः कदाचन ॥८ अनादेयतृणान्यत्वा स्रवन्त्यनुदिनं पयः। तुष्टिदा देवतादीनां पूज्या गावः कथं न ताः ॥8 स्पृशश्च गावः शमयन्ति पापं संसेविताश्वोपनयन्ति वित्तम् । ता एव दत्तास्त्रिदिवं नयन्ति गोभिर्न तुल्यं धनमस्ति किचित् ।।१० यस्याः शिरसि ब्रह्माऽऽस्ते स्कन्धदेशे शिवःस्थितः । पृष्ठे नारायणस्तस्थौ श्रुतयश्चरणेषु च ॥११ या अन्या देवताः काश्चित्तस्या लोमसु ताः स्थिताः । सर्वदेवमया गावस्तुध्येत्तद्भक्तितो हरिः ॥१२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy