SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ७३४ वृहत्पराशरस्मृतिः। [चतुर्थोंयोऽतिथिं पूजयेद्भक्त्या अन्याभ्यागतमेव च। बाल-बृद्धादिकं चैव तस्य विष्णुः प्रसीदति ।।२१० देवा मनुष्याः पितरश्च सर्वे स्युर्यन तृप्तेन च भूरि दिष्टम् । तामानहातुम्त्यमराङ्गनाभिस्तस्यातिथेः केन समत्वमस्ति ॥२११ इति आतिथ्यविधिः । अथ वर्णाश्रमधर्मवर्णनम्। वर्णधर्मान् प्रवक्ष्यामि यत् कृत्यं ब्राह्मणादिभिः । निबोधध्वं द्विजास्तद्वै संक्षेपेण पृथक् पृथक् ॥२१२ यजनं याजनं विप्रे तथा दान-प्रतिग्रहो। अध्यापनमध्ययनं कर्माण्येतानि षट् तथा ॥२१३ प्रजानां रक्षणं दानमरीणां निग्रहस्तथा। यजना-ऽध्ययने राज्ञि विषयासक्तिवर्जनम् ॥२१४ यजना-ऽध्ययने दानं पाशुपाल्यं तथा विशि । वाणिज्यं च कुसीदं च कर्मषट्कं प्रकीर्तितम् ।।२१५ शुश्रूषा ब्राह्मणादीनां तदाज्ञापालनं तथा । एष धर्मः स्मृतः शूद्रे वाणिज्येन च जीवनम् ॥२१६ सर्वेषां जीवनं प्रोक्तं धर्मेणैव च कर्षणम् । भिन्नवृत्तिर्यथा न स्यात् कुर्याद्विप्रस्तथा च तत् ॥२१७ कुर्वन्नुक्तानि कर्माणि वृत्या वा क्षत्रियस्य च । वत्यभावे द्विजो जीवेद्भिन्नवृत्ति विवर्जयेत् ॥२१८ प्रजानां पालनं दानं शस्त्रभृत्त्वं प्रचण्डता । निर्जयः परसैन्यानामेव धर्मः स्मृतो नृपे ॥२१६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy