SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ । चा पुनः । ध्यायः] वैश्वदेवविधिवर्णनम् । चतस्रो जुहुयात्तस्मै गणेशाय तथाऽऽहुतीः। तद्विष्णोरिति जुहुयाद्विधिसम्पूर्णताकृते ॥१७८ . प्रणवेन च गायच्या केचिज्जुह्वति तद् द्विजाः। एतौ वै सर्वदेवत्यौ एतस्परं न किंचन ॥१७६ एताभ्यां तु हुतेनैव सर्वेभ्योऽपि हुतं भवेत्। । जुहुयात् सर्पिषाऽभ्यक्तं गव्येन पयसाऽथ वा ॥१८० क्रीतेन गोविकारेण तिलतैलेन वा पुनः । सम्प्रोक्ष्य पयसा वाऽन्नं नाभ्यक्तं चाश्नुयादपि ॥१८१ अस्नेहा यव-गोधूमाः शालयो हवनीयकाः । हविस्तु हविरभ्यक्तमहविस्तु हवियतः ॥१८२ अभ्यक्तमेव होतव्यमतो रूक्षं विवर्जयेत् । दारिद्रयं शिवत्रितामेके रूक्षान्नहवने विदुः ॥१८३ जठराग्नेः क्षयं चैके रूक्षमन्नं न हूयते। आंकारपूर्विका सर्वाः स्वाहाकारान्तिकास्तथा ॥१८४ जुहुयादग्निको विप्रो गृहमेधी हि नित्यशः । बलिं चोपान्तभूतेभ्यः सर्वेभ्यो ऽध्यविशेषतः ।।१८५ हुत्वाऽथ कृणवत्मानं कृताञ्जलिः प्रसादयेत् । त्वमाने द्युभिरेतेन मन्त्रोण भक्तिमान् द्विजः ॥१८६ आब्रह्मन्निति मन्त्रं तु जपेद्वै सार्वकामिकम् । आहाव्यग्न इति ह्यनं मन्त्रां च प्रयतो जपेत् ॥१८७ अन्यं होताशनं मन्त्रं जपित्वाथ क्षमापयेत् । अन्यानि चैव सूक्तानि पवित्राणि ततो जपेत् । सर्वशान्तिककृत्यर्थ तथाग्निदेवतेति च ॥१८८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy