SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [चतुर्थी. श्रियै च भद्रकाल्यै च उच्छीर्षे पादयोः क्रमात् । ब्रह्मगे सानुगायेति मध्ये चैव बलिं हरेत् ॥१६७ वास्तवे सानुगायेति वास्तुमध्ये बलिं हरेत् । विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उरिक्षपेत् ॥१६८ धुवरेभ्यश्व भूतेभ्यो नक्तंचारिभ्य एव च । वास्तोः पृष्ठे च कुर्वीत बलिं सर्वानुतृप्तये ॥१६६ पितृभ्यो बलिशेषं तु सर्व दक्षिणतो हरेत् । पतितेभ्यः श्वपाकेभ्यः पापानां पापरोगिणाम् ॥१७० कृमि-कीट-पतङ्गानां सर्वेभ्योऽपि वलिं हरेत् । एवं सर्वाणि भूतानि यो विप्रो नित्यमर्चयेत् ॥१७१ तत् स्थानं परमाप्नोति यज्योतिः परवेधसः । गृह्ये ऽनौ वैश्वदेवं तु प्रोतमेतन्मनीषिभिः ।।१७२ अनग्निकस्तु कुर्वीत वैश्वदेवं कथं त्विति ?। महान्याहृतिभिस्तिस्रः समस्ताभिस्तथाऽपरा ।।१७३ इत्याहुतीश्चतस्तु तथा देवकृते ऽपि च । त्रियम्बकं यजामह इत्यादि चाहुतिद्वयम् १७४ वैश्वदेवेन जुहुयाद्विशेषोऽन्यत्र वै पुनः अपमृत्युनिवृत्त्यर्थमायुः पुष्टिविवृद्धये ॥१७५ जुहुयात् त्र्यम्बकं देवं विल्वपौरितलैस्तथा । विनायकाय होतव्या घृतस्याहुतयस्तथा ॥१७६ सर्वविघ्नोपशान्त्यथं पूजयेद्यत्नतस्तु तम् । गणानां वेति मन्त्रोण स्वाहाकारान्तमादृतः ॥१७७ -
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy