________________
ऽध्यायः] वैश्वदेवविधिवर्णनम्। ७२६
हविष्यस्य द्विजोऽभावे यथालाभं शृतं हविः।। जुहुयाद्विधिवद्भक्त्या यथा स्याञ्चित्तनिवृतिः ॥१५६ यद्वा तद्वापि होतव्यमग्नौ किंचिद् द्विजातिभिः । फलं वा यदि वा मूलं घासं वा यदि वा पयः ॥१५७ अहुत्वा च द्विजोऽश्नीयाद्यत्किंचित् स्वयमश्नुते । अश्नीयाञ्चेदहुत्वापि नरकं स समाविशेत् ।।१५८ जुहुयाद्वयञ्जन-क्षारवय॑मन्नं हुताशने । अनुज्ञातो द्विजस्तातु त्रिकृत्वा पुरुषर्षभः ॥१५६ यत्त्वग्नौ हूयते नैव यस्य चायं न दीयते । अभोज्यं तद् द्विजातीनां भुक्त्वा चान्द्रायणं चरेत् ॥१६० लौकिके वैदिके चैव वैश्वदेवो हि नित्यशः । लौकिके पापनाशाय वैदिके स्वर्गमाप्नुयात् ॥१६१ अभावादग्निहोत्रस्य आवसथ्यस्य वा तथा । यस्मिन्नग्नौ पचेदन्नं तत्र होमो विधीयते ॥१६२ अग्निःसोमस्समस्तौ तौ विश्वेदेवास्तथैव च । धन्वन्तरिः कुहूस्तदनुमतिः प्रजापतिः ।।१६३ द्यावाभूभ्योः स्विष्टकृते हुत्वतेभ्यः पुनस्ततः । कुर्याद्वलिहृतिं पश्चात् सर्वदिक्षु प्रदक्षिणम् ॥१६४ सुत्राम्गे तस्य पुंभ्यश्च यमाय च सहानुगैः । वरुणाय सहैतैश्च सोमाय च सहानुगैः ॥१६५ मरुद्भिश्व क्षिपेद्वारि अश्विभ्यां च तथा हरेत् । वनस्पतिभ्यः सर्वेभ्यो मुसलोलुखले हरेत् ॥१६६