________________
बृहत्पराशरस्मृतिः। [चतुर्थीतिष्ठन् ब्रसंस्तथाऽऽसीनः शयानोऽपि हरिं सदा । संस्मरना ऽशुभं पश्येदिहाऽमुत्र च वै द्विजः॥१४६ रुद्रं रुद्रिविधानेन ब्रह्माणं च विधानतः । सूर्य संहितमन्त्रैश्च तदीरितविधानतः ॥१४७ दुर्गा कात्यायनी चैव तथा वाग्देवतामपि । स्कन्दं विनायकं चैव योगिनी क्षेत्रपालकान् ॥१४८ विधिवदर्चयेत् सर्वान्यो विप्रो भक्तितत्परः। विष्णुना सुप्रसन्नेन विष्णुलोकमवाप्नुयात् ।।१४६ प्रहांश्च पूजयेद्विद्वान् ब्राह्मणः शान्तितत्परः । आरोग्य-पुष्टिसंयुक्तो दीर्घमायुरवाप्नुयात् ।।१५० गृहा गावो नृपा विप्राः सद्भिः पूज्याः सदा नरैः। पूजिताः पूजयन्त्येते निर्दहन्त्यपमानिताः ॥१५१ यो हितः सर्वसत्त्वेषु नृप-गो-ब्राह्मणेषु च ।
इहाऽमुत्र च पूज्योऽसौ विष्णुलोकमवाप्नुयात् ॥१५२ उक्तो गृहस्थस्य सुरार्चनस्य धन्यो विधिविष्णुपदोपलब्ध्यै । कार्यों द्विजातेः प्रतिवासरं यो वेदोक्तमन्त्रैः स मया हिताय ॥१५३
देवपूजाविधिः प्रोक्त एष उद्देशतो यथा। वैश्वदेवस्य वक्तव्यो विधिविधा मयाधुना ॥१५४
इति देवपूजाविधिः।
अथ वैश्वदेवविधिवर्णनम् । बैश्वदेवं प्रवक्ष्यामि यथाकार्य द्विजातिभिः। स्वगृह्मोतविधानेन जुहुयाद्वैश्वदैविकम् ।।१५५