________________
ऽध्यायः] देवार्चनविधिवर्णनम् ।
द्वादश्या दीपकं दद्यात्तयोदश्या नैवेद्यकम् । चतुर्दश्याञ्जलिं कुर्यात् पञ्चदश्या प्रदक्षिणम् ॥१३८ षोडश्योद्वासनं कुर्याच्छेषकर्मणि पूर्ववत् । स्नाने वस्त्रे च नैवेद्य दद्यादाचमनं हरेः। षण्मासात् सिद्धिमाप्नोति एवमेवहि योऽर्चयेत् ॥१३६ आदित्यमण्डले देवं ध्यात्वा विष्णु मनोमयम् । स याति ब्रह्मणः स्थानं नात्र कार्या विचारणा ॥१४०
ध्येयो दिनेशपरिमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुथुतशङ्ख-चक्रः ।।१४१ सूक्तेन विष्णुविधिना समुदीरितेन योऽनेन नित्यमजमादिमनन्तमूर्तिम् । भक्तयाऽर्चयेत् पठति यश्च स विष्णुदेहं
विप्रो विशेद्धरिवरेण कृतार्थदेहः ॥१४२ पञ्चरात्रविधानेन स्थण्डिले वापि पूजयेत् । । जलमध्यगतो वापि पूजयेजलमध्यतः ।।१४३ द्वादशारं नवव्यूहं पञ्चरात्रक्रमेण तु । अभावे धौतवस्त्रस्य पत्रिकायास्तथा द्विजः ।।१४४ जलेऽपि हि जलेनैव मन्त्रैरेवार्चयेद्धरिम् । विष्णुर्विष्णुरित्यजस्रं चिन्तयेद्धरिमेव तु ॥१४५