________________
. वृहत्पराशरस्मृतिः। [चतुर्थोनवमी नाभिमध्ये तु दशर्मी हृदि विन्यसेत् । एकादशी वामपादे द्वादशी दक्षिणे न्यसेत् ॥१२७ कण्डे त्रयोदशीं न्यस्य तथा वक्त्रे चतुर्दशीम् । अक्ष्णोः पञ्चदशीं न्यस्य षोड़शी मूर्ध्नि विन्यसेत् ॥१२८ एवं न्यासविधिं कृत्वा पश्चाद्यागं समाचरेत् । आसनं चिन्तयेन्मेरुमष्टपत्रं सकर्णिकम् ।।१२६ व्याहृतीनामथ न्यासं कुर्याच्च विधिवद् द्विजः । भूलोकं पादयोय॑स्य भुवर्लोकं तु जानुनोः ॥१३० स्वर्लोकं कटिदेशे तु नाभिदेशे महस्तथा । जनोलोकं तु हृदये कण्ठदेशे तपस्तथा ॥१३१ भ्र वोर्ललाटसन्ध्योस्तु सत्यलोकः प्रतिष्ठितः । हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।।१३२ तच्छुत्रं ज्योति ज्योतिस्तद्यदात्मविदो विदुः। आवाहनमथ प्राहुर्विष्णोरमिततेजसः ।।१३३ यथार्चा क्रियते तस्य स्वदेहे चिन्तयेत्तथा । आद्ययाऽऽवाहयेदेवमृचा तु पुरुषोत्तमम् ॥१३४ यथा देवे तथा देहे न्यासं कुर्याद्विधानत । द्वितीययाऽऽसनं दद्यात् पाद्यं चैव तृतीयया ॥१३५ चतुर्थ्याध्यः प्रदातव्यः पञ्चम्याऽऽचमनं तथा । षष्ठथा स्नानं प्रकुर्वीत सप्तम्या वसनं तथा ॥१३६ यज्ञोपवीतं चाष्टम्या नवम्या गन्धमेव च। पुष्पं देयं दशम्या तु एकादश्या च धूपकम् ॥१३७