________________
ऽध्यायः] देवाचनविधिवर्णनम् ।
विष्णुरादिरयं देवः संमिरगणाचितः। नामग्रहणमात्रेण पापपाशं छिनत्ति यः ।।११६ तदर्चनं प्रवक्ष्यामि विष्णोरमिततेजसः । यत् कृत्वा मुनयः सर्वे परं सायुज्यमाप्नुयुः ॥११७ षट्स्वेतेषु हरेः सम्यगर्चनं मुनिभिः स्मृतम् । अपस्वनौ हृदये सूर्ये स्थण्डिले प्रतिमासु च ॥११८ अग्नौ क्रियावतां देवो दिवि देवो मनीषिणाम् । प्रतिमास्वल्पबुद्धीनां योगिनां हृदये हरिः ॥११६ आपो ह्यायतनं तस्य तस्मातासु सदा हरिः। सर्वगवन विष्णोतु स्थण्डिले भावितात्मनाम् ॥१२० दद्यात् पुरुषसूक्तेन आपः पुष्पाणि चैव हि । अर्चितं स्यादिदं तेन नित्यं भुवनसप्तकम् १२१ आनुष्टुभस्य सूक्तस्य त्रैष्टुभस्य च दैवतम् ।। पुरुषो यो जगद्वीजमृषिर्नारायणः स्मृतः ।।१२२ तस्य सूक्तस्य सर्वस्य भृचां न्यासं यथाक्रमम् । देवे चैवात्मनि तथा सम्प्रवक्ष्याम्यतः परम् ।।१२३ हस्तन्यासं पुरा कृत्वा स्मृत्वा विष्णु तथाऽव्ययम् । शिखाबन्धं च दिग्बन्धं सञ्चिन्त्य विष्णुमात्मनि ॥१२४ प्रथमा विन्यसेद्वामे द्वितीयां दक्षिणे करे। तृतीयां वामपादे तु चतुर्थी दक्षिणे न्यसेत् ।।१२५ पञ्चमी वामजानौ तु पष्ठीं च दक्षिणे न्यसेत् । सह.मी वामकठ्यां च दक्षिणायां तथाष्टमीम् ।।१२६