SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ००२ ___ वृहत्पराशस्मृतिः। [चतुर्थो “जठरे रक्तवणं तु मात्राद्वयविभूषितम् । गोहत्यादिकृतं पापं गोंकारस्तु विशोधयेत् ॥८४ श्यामरक्तं च देकारं ध्यानं तद्देशयेहदि । हिम्-कुन्देन्दुवर्णाभं वकारममृतं स्रवत् ।।८५ पितृ-मान-वधोद्भूतं मित्रावरुणदेवतम्।। गुमहत्याकृतं पापं वकारेण प्रणश्यति ॥८६ स्यकारं विन्यसेत् कण्ठे त्याष्ट्रं स्फटिकसन्निभम् । मनसोपार्जितं पापं स्यकारेण प्रणश्यति ॥८७ धीकारं वसुदैवत्यं वदन्ति स्वर्णसन्निभम् । प्रतिप्रहकृतं पापं तत्क्षणादेव नश्यति ॥८८. मकारं पद्मरागाभं शिरस्थं दीप्ततेजसम् । पूर्वजन्मकृतं पापं मकारण प्रणश्यति ॥८६ हिकारं नासिकाग्रे तु पूर्णचन्द्रसमप्रभम् । पूर्वापूर्वतरं पापं स्मरणादेव नश्यति ॥६० धिकारं शान्तमक्ष्योश्च पीतवणं सुधांशुवत् । . मनो-बाकायजं पापं चिन्तनादेव नश्यति ॥६१ योकारौ द्वौ धूम्र-नीलो भ्र-ललाटे च संस्थितौ । ध्यायन्नित्यं द्विजो नूनं सर्वपापैः प्रमुच्यते ॥२ नकारं तु मुखं पूर्व द्वादशादित्यसन्निभम् । सदयात्वा द्विजश्रेष्ठः प्राप्नोति ब्रह्मणः पदम् ॥६३ प्रकारं दक्षिणे वक्त्रे कालामि-रुद्रसन्निभम् । सहदयात्वा द्विजश्रेष्ठ ऐश्वरं पदमाप्नुयात् ॥६४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy