SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ बृहत्पराशरस्मृतिः। [तृतीयोअकारोकारौ मश्चेति त्रिमात्रः प्रोच्यते बुधैः । भूतं भव्य भविष्यं च त्रिकाल इति स स्मृतः ॥१५ स्त्री-पुनपुंसकं चेति त्रिलिङ्ग इति कीर्तितः । त्रिस्वभावः स्थितो देवो मन्तव्यो ब्रह्मवादिभिः ॥१६ पर्यवस्यति यत्रैतद्विश्वमुत्पद्यते यतः।। निर्मात्रकः समात्रोऽपि सादिरेव निरादिकः ॥१७ स जप्यः सर्वदा सद्भिातव्यश्च विधानतः । वेदेषु चैव शास्त्रेषु बहुधा से व्यवस्थितः ॥१८ तथा सत्यपि चैकोऽयं घटाकाश इव स्थितः । कर्मारम्भेषु सर्वेषु त्रिमात्रः सम्प्रकीर्तितः ॥१६ स्थितो यत्र यथोक्तश्च स्मर्तव्यः स तथैव हि । मृग्वेदे स्वरिदोदात्त उदात्तस्तु यजुःश्रुतौ ।।२० . सामवेदे स विज्ञेयो दीर्घः स प्लुत एव च । सनत्कुमारसिद्धान्ते प्रणवो विष्णुरुच्यते ॥२१ यस्मिंस्तत्य च विश्रान्तिस्तत् परं ब्रह्मसंज्ञितम् । उच्चारितस्य तस्याथ विश्रान्तौ च यदक्षरम् ॥२२ तदक्षरं सदा ध्यायेद्यस्तरैव प्रलीयते । घण्टास्वनितवत्तस्य विश्रान्तिः शब्दवेधसः ॥२३ कुर्वीत ब्रह्मविद्विषो यदीच्छेधोगमात्मनः । सर्वस्यापि च शब्दस्य यन्त उचारितस्य यत् ॥२४ तयायेद्यस्तु स ज्ञानी. शब्दप्राषिदुच्यते। . याज्ञवल्क्यो मुनीनां प्रागनवीजनकस्य च २५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy