SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] कर्तव्यवर्णनम् । ७०६ नास्तिक्यावस्थितो यस्तु तपेयेन पितृन् द्विजः । पिवन्ति देहनिस्राव पितरस्तजलार्थिनः ।।२१६ पितॄणां पितृतीर्थेन देवानां दैविकेन तु । इति मत्वा प्रकुर्वाणा मुच्यते गृहमेधिनः ।।२२० पञ्च तीर्थानि विप्रस्य करे तिष्ठन्ति दक्षिणे । ब्राह्मं देवं तथा पित्र्यं प्राजापत्यं तु सौमिकम् ॥२२१ ब्राह्मं पश्चिमलेखायां देवं ह्यङ्गुलिमूर्धनि । प्राजापत्यं कनिष्ठादौ मध्ये सौम्यं विजानतः ।।२२२ अङ्गुष्ठस्य प्रदेशिन्या मध्ये पित्र्यं प्रतिष्ठितम् । कुर्याद्यो ऽहरहश्चैवं सम्यग्ज्ञात्वा विधानतः ।।२२३ स प्राप्नुयाद्गृहस्थोऽपि ब्रह्मणः पदमव्ययम् । स्नात्वा जप्त्वा च हुत्वा च दत्वा चैव तु योऽशुते ।।२२४ सो ऽमृतं नित्यमश्नाति तस्य स्थानमनामयम् । अस्नात्वाऽश्नन् मलं भुङ्क्ते अजप्त्वा पूय-शोणितम् । अजुश्च कृमीन कीटानदर्दश्च शकृत्तथा ।।२२५ आह्लादकारणं स्नानं दुःख-शोकापहं तथा । दुःस्वप्ननाशनं चैव कार्य स्नानमतः सदा ॥२२६ चित्तप्रसाद-बल-रूप-तपांसि-मेधामायुष्य-शौच-सुभगत्वमरोगितां च । ओजस्वितां त्विषमदात् पुरुषस्य चीणं स्नानं यशो-विभव-सौख्यमलोलुपत्वम ।।२२७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy