SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ बृहत्पराशरस्मृतिः। [द्वितीयोनिष्पीडयति यः पूर्व स्नानवस्त्रमबुद्धिमान् । निराशाः पितरस्तत्य यान्ति देवाः सहर्षिभिः २०८ निष्पीडयेत् स्नानवस्त्रं तिल-दर्भसमन्वितम् । न पूर्व तर्पणाद्वस्त्रं नैवाम्भसि न पादयोः ।।२०६ . एषु चेत् पीडयेद्वस्त्रं राक्षसं तदतिक्रमात् । वननिष्पीडने विप्र इमं श्लोकमुदाहरेत् ।।२१० ये मे कुले लुप्तपिण्डा पुत्र-दार-विवर्जिताः । तेषां प्रदत्तमक्षय्यमिदमस्तु तिलोदकम् ॥ २११ पितृवंशे मृता ये च मातृवंशे कुमृत्युना । तेषां तृप्तिर्भवत्त्वेषा तिलमिश्रेण वारिणा ।।२१२ जलमध्ये च यः कश्चिदा झणो ज्ञानदुर्बलः । निष्पीडयति चेद् वस्त्रं स्नानं तस्य वृथा भवेत् ॥२१३ यदप्सु मलनिक्षेपः शौच-स्नानादिकुर्वताम् । तत्पापस्य व्यपोहार्थमिमं मन्त्रभुदीरयेत् ॥२१४ . यन्मया दूषितं तोयं मलैः शारीरसम्भवैः । तस्य पापस्य निष्कृत्य यक्ष्मणस्तत्र तर्पणम् ।।२१५ अम्बुपेभ्यो ऽथ यक्ष्मभ्यो ददामीदं जलाञ्जलिम् । अन्यथा घ्नन्ति ते सर्व सुकृतं पूर्वसञ्चितम् ।।२१६ अपुत्रा ये मृताः केचिन पुमांसो योपितो ऽपि वा। अस्मद्वंशेऽपि तेभ्यो वै दत्तं वस्त्रजलं मया ।।२१७ नास्तिस्येनापि यो विप्रस्तपयेत् पितृ-देवताः । सः तत्तृप्तिकतो धर्मान प्राप्नुयात् परमां गतिम् ।।२१८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy