SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ७०१ M ऽध्यायः ] आचारधर्मवर्णनम् । उन्मृन्य सर्वगात्राणि निमज्जेच्च पुनः पुनः । उत्तीर्याऽऽचम्य गात्राणि गोमयेनाथ लेपयेत् ॥१३२ मानस्तोक इति युक्ता प्राग्वदङ्गक्रमेण तु। इमं मे वरुण, त्वन्नः, सत्यं नय, उदुत्तमम् ॥१३३ मुञ्च त्ववभृथेत्येतैरात्मानमभिषेचयेत् । निमज्ज्याऽऽचम्य चाऽऽत्मानं दर्भेमन्त्रैश्च पावयेत् ।।१३४ सर्वपापापनोदार्थ प्राग्वदङ्गक्रमेण तु । आपोहिष्ठादिकैर्मन्त्रनिभिरल्यैश्च पावयेत् ।।१३५ हविष्मतीरिमा आप इदमापस्तथैव च । देवीराप इति द्वाभ्यामापो देवीरिति त्यचा ॥१३६ संस्मृय दुपदां देवीं शन्नो देवीरपां रसम् । प्रत्यङ्गं मन्त्रनवकमापोदेवी पुनन्तु माम् ॥१३७ चित्पति मां पुनात्वेतन्मन्त्रेणापि च पावयेत् । हिरण्यवर्णा इति च पावमान्यरतथापरम् ।।१३८ तरत्समन्दीधावति पवित्र्याण्यपि शक्तितः। स्नानकात्मकर्मन्ौरन्यैरप्यम्वुदैवतैः ॥१३६ प्लाव्यात्मानं निमज्ज्याथ आचान्तात्वन्यदाचरेत् । काल-काय-प्रदेशानां तथा चैवोदकस्य च ॥१४० प्राकृये सति चैवायं विधिरन्यो विपर्यये । सोंकारां चैव गायत्री महाव्याहृतिभिः सह ।।१४१ त्रिषण्णवैकधाऽऽवर्त्य सायाद्विद्वानपि द्विजः : छन्दो-मुन्यमरैर्युक्त स्वशाखास्वरसंयुतम् ।।१४२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy