SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [द्वितीयोदुपदाघमर्षणं सूक्तं मार्जने व्याहरेदिति । स्मृतिभिः परिशिष्यैश्च विशेषस्तोयसेचने ॥५६ . उक्तोऽधोर्ध्व विभागेन कर्तभ्यः सोऽपि सद्विजैः । आपोहिष्ठेति च ऋचामष्टाक्षरपदेन च ॥५७ - पादान्ते प्रक्षिपेद्वापि पादमध्ये न च क्षिपेत् । भूमौ मूनि तथाऽकाशे मूर्ध्याकाशे पुनर्भुवि ।।५८ एवं वारि द्विजः सिञ्चन् तर्पयेत् सर्वदेवताः । मृगन्ते माजनं कुर्यात् पादान्ते वा समाहितः ।।५६ भूगर्थे वा प्रकुर्वीत शिष्टानां मतमीदृशम् । सुदुत्यं चित्रं देवानामुपस्थाने नियोजयेत् ॥६० हंसः शुचिः पदित्यादि केचिदिच्छन्ति सूरयः। अव्याकृतमिदं यासीत् सदेवासुर-मानुषम् ॥६१ सडोभायासृजद् ब्रह्मा, सप्तेमा व्याहृतीः पुरा । भूर्भुवः स्वमहर्जनस्तपः सत्यं तथैव च ॥६२ आद्यास्तिस्रो महाप्रोक्ताः सर्वत्रैव नियोजनात् । अनिर्वायुस्तथा सूर्यों बृहस्पत्याप एव च ॥६३ इन्द्रश्च विश्वेदेवाश्च देवताः समुदाहृताः । गायत्र्युष्णिगनुष्टुप् च वृहती पङ्क्तिरेव च ॥६४ त्रिष्टुप् च जगती चैव च्छन्दांस्येतान्यनुक्रमात् । भरद्वाजः कश्यपश्च गौतमोऽत्रिस्तथैव च ॥६५ विश्वामित्रो जमदनिर्वशिष्ठश्चर्षयः क्रमात् । एताभिः सकलं व्याप्तमेताभ्यो नास्ति चापरम् ॥६६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy