________________
६६५
ऽध्यायः] सन्ध्याकृत्यवर्णनम्।
कृष्णस्रग्भूषणैर्युक्ता. सर्वज्ञानमया वरा । सर्ववाग्देवता सर्वा ब्रह्मादिवचसि स्थिता ॥२३ वीणा-ऽश्नमालिका चापहस्ता स्मितवरानना । चतुर्दशजनाभ्या कल्याणी शुभवाक्प्रदा ॥२४ मातर्वाग्देवि ! वरदे ! वरेण्ये ! वचनप्रदे !। सर्वमरुद्गणस्तुत्ये ! आहूतेहि ! पुनीहि माम् ।।२५ ब्रह्मेशार्क हरीणां तु सङ्गमोऽस्तूभयोर्भवेत् । माध्याह्निकायां सन्ध्यायां सर्वदेवसमागमः ।।२६ . पूजाभिकारिणो ये च ये च किञ्चिजलार्थिनः । श्राद्धानभागधेया ये ये चाग्निहुतभागिनः ।।२७ अन्यान्युच्चावचानीह, स्थावराणि चराणि च । माध्याहिकीमपेक्षन्ते तेषामाप्यायिका हि सा ॥२८ यस्तस्यां नार्चयेदेवांस्तर्पयेन्न पितृस्तथा। भूता युनावचानीह सोऽन्धतामिस्रमृच्छति ।।२९ ईशान्याभिमुखो भूत्वा द्विजः पूर्वमुखोऽपि वा। सन्ध्यामुपासयेद्यद्वत्तथाबत्तन्निबोधत ।।३० आ मणेबन्धनाद्धरतौ पादौ चा ऽऽजानुतः शुचिः । प्रक्षाऽऽल्यावमेद्विद्वानन्तर्जानुकरो द्विजः ।।३१ निर्मलात् फेनपूताभि मर्नोज्ञाभिः प्रयत्नवान् । आचामेब्रह्मतीर्थेन पुनराचमनाच्छुचिः॥ ३२ वक्तनिर्मार्जनं कृत्वा द्विस्तेनैवाधरान्यथा । अद्भिश्च संस्पृशेत् खानि सर्वाण्यपि विशुद्धये ॥३३