________________
६६०
वृहत्पराशरस्मृतिः। [द्वितीयोपूर्वाह्वो ह्यपराहस्तु क्षपा चेति श्रुतिक्रमः । पूर्वा सन्च्या तु गायत्री ब्रह्माणी हंसवाहना ॥१३ रक्तपमारुणा देवी रक्तपद्मासनस्थिता । रक्ताभरणभासाङ्गा रक्तमाल्याम्बरा तथा ॥१४ अक्षमाला स्रग्धरा च वरहस्ताऽमरार्चिता। प्रागादित्योदयाद्विद्वान् मुहूर्त वैधसे सति ॥१५ "प्रातः संध्यां सनक्षत्रामुपासीत यथाविधि । साहित्यां पश्चिमा सन्ध्यामर्धास्तमितभास्कराम् ॥" उत्थायोपासयेत्सन्ध्यां यावत् स्यादर्कदर्शनम् । विश्वमातः ! सुराभ्यर्थे ! पुण्ये ! गायत्रि ! वैधसि ! ।।१६ आवाहयाम्युपास्त्यर्थ एह्यनोनि पुनीहि माम् । सन्ध्या माध्याह्निकी श्वेता सावित्रो रुद्रदेवता ॥१७ वृषन्द्रवाहना देवी ज्वलत्रिशिखधारिणी। श्वेताम्बरधरा श्वेता नानाभरणभूषिता ॥१८ श्वेतप्रगक्षमाला च कृतानुरक्तिशङ्करा । जलाधारा धरा धात्री धरेन्द्राङ्गभवा तथा ॥१६ स्वभाविभातभूराद्या सुरौघनुतपाद्वया। मातर्भवानि ! विश्वेशि ! विश्वे विश्वजनाचिंते ! ॥२० शुभे! वरे ! वरेण्यहि आहूतासि पुनीहि माम् ॥२१ सन्ध्या सायन्तनी कृष्णा विष्णुदेवी सरस्वती। खगगा कृष्णवत्रा तु शङ्खचक्रगदाधरा ।।२२