________________
६८८
कृहत्पराशरस्मृतिः। [द्विवीयोनियुक्तः सुनतः शेषं विप्राणां ख्यापनाय च ॥६२ पराशरो व्यास वचो निशम्य
__ यदाह शास्त्रं चतुराश्रमार्थम् । युगानुरूपञ्च समस्तवर्ण
हिताय वक्ष्यत्यथ सुव्रतस्तत् ॥६३ शक्तिसूनोरनुज्ञातः सुतपाः सुव्रतस्त्विदम् ।
चतुर्वर्णाश्रमाणाञ्च हितं शास्त्रमथाब्रवीत् ॥६४ इति श्रीवृहत्पाराशरीये धर्मशास्त्र व्यासप्रश्ने सुव्रतप्रोक्तायां
शास्त्रसंग्रहोद्देशकथनं माम प्रथमोऽध्यायः ।
॥ द्वितीयोऽध्यायः ॥
आचारधर्मवर्णनम् । पराशरमतं पुण्यं पवित्रं पापनाशनम् । चिन्तितं ब्राह्मणार्थाय धर्मसंस्थापनाय च ॥१ चतुर्णामपि वर्णानामाचारो धर्मपालनम् । आचारभ्रष्टदेहानां भवेद्धर्मः पराङ्मुखः ॥२ षट्कर्माभिरतो नित्यं देवताऽतिथिपूजकः । हुतशेषन्तु भुञ्जानो ब्राह्मणो नावसीदति ॥३