________________
॥ अथ ॥ (सुव्रतमुनिप्रोक्ता)
* वृहत्पराशरस्मृतिः
॥ श्रीगणेशाय नमः॥
-:०००:॥ प्रथमोऽध्यायः ॥
-००
तत्रादौ-वर्णाश्रमप्रश्नम्। व्यक्ताव्यक्ताय देवाय वेधसेऽनन्ततेजसे । नमस्कृत्य प्रवक्ष्यामि धर्मान् पाराशरोदितान् ॥१ अथातो हिमशैला देवदारुवनाश्रमे । व्यासमेकाग्रमासीन मृत्यः प्रष्टुमागताः ॥२ मनुष्याणां हितं धर्म वर्तमाने कलौ युगे। वर्णानामाश्रमाणाञ्च किञ्चित्साधारणं वद ॥३ युगे युगे ये प्रोक्ता धर्मा मन्वादिभिर्मुने ! । वाक्यं तेनैव ते कर्तुं वगैराश्रमवासिभिः ॥४ स पृष्टो मुनिभियांसो मुनिभिः परिवेष्टितः । प्रष्टुं जगाम पितरं धर्मान् पराशरं ततः ।।५ सर्वेषामाश्रमाणाञ्च वरे वदरिकाश्रमे । स विवेशाश्रमे तस्मिन् तर्नु योगीव वेधसः॥६