________________
ऽध्यायः]
प्रायश्चित्तवर्णनम् । गाश्चैवैकशतं दद्याच्चातुर्वेयेषु दक्षिणाम् । ब्राह्मणानां प्रसादेन ब्रह्महा तु विमुच्यते ॥६६ सवनस्थां स्त्रियं हत्वा ब्रह्महत्याव्रतं चरेत् । मद्यपश्च द्विजः कुन्निदीं गत्वा समुद्रगाम् ॥६७ चान्द्रायणे ततश्चीणे कुर्याद्ब्राह्मणभोजनम् । अनडुत्सहितां गाञ्च दद्याद्विप्रेषु दक्षिणाम् ॥६८ अपहृत्य सुवर्णन्तु ब्राह्मणस्य ततः स्वयम् । गच्छेन्मुषलमादाय राजाभ्यासं बधाय तु ॥६६ ततः शुद्धिमवाप्नोति राज्ञासौ मुक्त एव च । कामकारकृतं यत् स्यान्नान्यथा वधमर्हति ॥७० आसनाच्छयनाद्यानात् सम्भाषात् सहभोजनात् । संक्रामति हि पापानि तैलबिन्दुरिवाम्भसि ॥७१ चान्द्रायणं यावकञ्च तुलापुरुष एव च। गवाञ्चैवानुगमनं सर्वपापप्रणाशनम् ॥७२ एतत् पराशरं शास्त्रं श्लोकानां शतपञ्चकम् । द्विनवत्या समायुक्तं धर्मशास्त्रस्य संग्रहः ॥७३ यथाध्ययनकर्माणि धर्मशास्त्रमिदं तथा । अध्येतव्यं प्रयत्नेन नियतं स्वर्गगामिना ॥७४ इति पाराशरे धर्मशास्त्रे द्वादशोऽध्यायः॥ समाप्ता चेयं पराशरसंहिता ॥
ॐ तत्सत् ।
-
-