SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ६८० पराशरस्मृतिः। [द्वादशोऊोच्छिष्टमधोच्छिष्टमन्तरीक्षमृतौ तथा । कृच्छ्त्रयं प्रकुर्वीत आशौचमरणे तथा ॥५५ कृच्छ्रदेव्ययुतञ्चैव प्राणायामशतत्रयम् । पुग्यतीर्थे नाशिरः स्नानं द्वादशसंख्यया । द्वियोजनं तीर्थयात्रा कृच्छ्रमेवं प्रकल्पितम् ॥५६ गृहस्थः कामतः कुर्य्याद्रेतसः सेचनं भुवि । सहस्रन्तु जपेद्देव्याः प्राणायामैत्रिभिः सह ॥५७ चातुर्वेद्योपपन्नस्तु विधिवद्ब्रह्मघातके। समुद्रसेतुगमनप्रायश्चित्तं विनिहिरोत् ॥५८ सेतुबन्धपथे भिक्षा चातुर्वण्यात् समाचरेत् । वर्जयित्वा विकर्भस्थांछत्रोपानद्विवर्जितः ॥५६ अहं दुरकृतकर्मा वै महापातककारकः। गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥६० गोकुलेषु वसेव ग्रामे नगरेषुच । तथा वनेषु तीर्थेषु नदीप्रस्रवणेषु च ॥६१ एतेषु ख्यापयन्नेनः पुण्यं गत्वा तु सागरम् । दशयोजनविरतीणं शतयोजनमायतम् ॥६२ रामचन्द्रसमादिष्टं नलसञ्चयसञ्चितम् । सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति ॥६३ यजेत वाश्वमेवेन राजा तु पृथिवीपतिः॥६४ पुनः प्रत्यागतो वेश्म वासार्थ मुपसर्पति । सपुत्रः सह भृत्यैश्च कुर्याद्ब्राह्मणभोजनम् ॥६५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy