SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] शुद्धिवर्णनम् । खलयज्ञे विवाहे च संक्रान्तौ ग्रहणेषु च । शर्वा दानमेतेषु नान्यत्रेति विनिश्चयः ॥२२ पुत्रजन्मनि यज्ञे च तथा चात्ययकर्मणि । राहोश्च दर्शने दानं प्रशस्तं नान्यथा निशि ॥२३ महानिशा तु विज्ञेया मध्यस्थप्रहरद्वयम् । प्रदोषपश्चिमौ यामौ दिनवत् स्नानमाचरेत् ।।२४ चैयवृक्षश्चितिस्थश्व चण्डालः सोमविक्रयो । एतांस्तु ब्राह्मणः स्पृष्ट्वा सवासा जलमाविशेत् ॥२५ अस्थिसञ्चयनात् पूर्व रुदित्वा स्नानमाचरेत् । अन्तर्दशाहे विप्रस्य पर्वमाचमनं भवेत् ।।२६ सर्व गङ्गासमं तोयं राहुग्रस्ते दिवाकरे । सोमग्रहे तथैवोतं स्नानदानादिकर्मसु ॥२७ कुशपूतन्तु यत्स्नानं कुशेनोपस्पशेद्विजः । कुशेनोद्ध,ततोयं यत् सोमपानसमं स्मृतम् ।।२८ अतिकार्यात् परिभ्रटाः सन्ध्योपासनवर्जिताः । वेदञ्चैवानधीयानाः सर्वे ते वृषलाः स्मृताः ।।२६ तस्माद्धृवलभीतेन ब्राह्मगेन विशेषतः । अध्येतव्योऽप्येकदेशो यदि सर्व न शक्यते ॥३० शूद्रान्नरसपुष्टस्याप्यध्योयांनस्य नित्यशः । जपतो जुड़तो वापि गतिरुक्ता न विद्यते ॥३१ शूद्रान्नं शूद्रसम्पकैः शूद्रेण तु सहासनम् । शूद्राज्ज्ञानागमञ्चापि ज्वलन्तमपि पाम्पेत् ॥३२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy