SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ဖန် [द्वादशो पराशरस्मृतिः। यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते । तत्र स्नाने तु गङ्गायां स्नातो भवति मानवः ।।११ स्नानाथं विप्रमायान्तं देवाः पितृगणैः सह । वायुभूता हि गच्छन्ति तृषार्ताः सलिलार्थिनः ।।१२ निराशास्ते निवर्तन्ते वस्त्रनिष्पीड़ने कृते । तस्मान्न पीड़येद्वलमकृत्वा पितृतर्पणम् ॥१३ : विधुनोति हि यः केशान् स्नातः प्रस्नवतोद्विजः। आचामेद्वा जलस्थोऽपि स वाह्यः पितृदैवतैः ॥१४ शिरः प्रावृत्य कं बद्ध्वा मुक्तकच्छशिखोऽपिवा । विना यज्ञोपवीतेन आचान्तोऽप्यशुचिर्भवेत् ॥१५ जले स्वलस्थो नाचामेजलस्थश्च वहि स्थले । उभे स्पृष्ट्वा समाचान्त उभयत्र शुचिर्भवेत् ॥१६ स्नात्वा पीत्वा क्षुते सुप्ते भुक्ते रथ्योपसर्पणे । आचान्तः पुनराचामेद्वासोविपरिधाय च ॥१७ क्षुते निष्ठीविते चैव दन्तोच्छिष्टे तयानृते। पतितानाच सम्माषे दक्षिणं श्रवणं स्पृरोत् ।।१८ ब्रह्मा विष्णुश्च रुद्रश्य सोमः सूर्योऽनिलस्तथा। ते सर्वे पपि तिष्ठन्ति कर्णे विप्रस्य दक्षिणे ।।१६ दिवाकरकरैः पूतं दिवास्नानं प्रशस्यते । अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात् ।।२० महतो वसवो रुद्रा आदित्याश्वादिदेवताः । सर्वे सोमे विलीयन्ते तस्मात् स्नानन्तु तद्महे ।।२१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy