________________
ऽध्यायः] , शुद्धिवर्णनम् ।
॥ द्वादशोऽध्यायः ॥ तत्रादौ-पुनः संस्कारादिप्रायश्चित्तवर्णनम् । दुःस्वप्नं यदि पश्येतु वान्ते वा क्षुरकर्मणि । मैथुने प्रेतधूमे च स्नानमेव विधीयते ॥१ अज्ञानात् प्राप्य विषमूत्रं सुरां वा पिवते यदि । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥२ अजिनं मेखला दण्डो भैक्षचा व्रतानि च । निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥३ स्त्रीशूद्रस्य तु शुद्धयर्थं प्राजापत्यं विधीयते । पञ्चगव्यं ततः कृत्वा स्नात्वा पीत्वा विशुध्यति ॥४ जलाग्निपतने चैव प्रव्रज्यानाशकेषु च । प्रत्यवसितमेतेषां कथं शुद्धिविधीयते ॥५ प्राजापत्यद्वयेनापि तीर्थाभिगमनेन च । वृक्षकादशदानेन वर्णाः शुद्धयन्ति ते त्रयः॥६. ब्राह्मगस्य प्रवक्ष्यामि बनं गत्वा चतुष्पथम् । सशिखं वपनं कृत्वा प्राजापत्यत्रयञ्चरेत् ॥७ गोद्वयं दक्षिणां दद्याच्छुद्धिः स्वायम्भुवोऽब्रवीत् । मुच्यते तेन पानेन ब्राह्मणत्वञ्च गच्छति ॥८. स्नानानि पञ्च पुण्यानिः कीर्तितानि मनीषिभिः । आग्नेयं वारुणं ब्राह्म वायव्यं दिव्यमेव च ॥६ आग्नेयं भस्मना स्नानमवगाह्य तु वारुणम् । आपोहिष्ठेति च ब्राह्मं वायव्यं रजसा स्मृतम् ।।१०