SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ६७२ पराशरस्मृतिः। [एकादशोशूद्रकन्यासमुत्पनो ब्राह्मणेन तु संस्कृतः। संस्कृतस्तु भवेद्दास्यो ह्यसंस्कारैस्तु नापितः ।।२१ क्षत्रियाच्छूद्रकन्यायां समुत्पन्नस्तु यः सुतः । स गोपाल इतिज्ञेयो भोज्यो विप्रैन संशयः ॥२२ वैश्यकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः । आद्धिकश्च स तु ज्ञेयो भोज्यो विप्रैर्न संशयः ॥२३ भाण्डस्थित मभोज्येषु जलं दधि घृतं पयः। अकामतस्तु यो भुङ्क्ते प्रायश्चित्तं कथं भवेत् ।।२४ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्युपसर्पति । ब्रह्मकु]पवासेन यथावर्णस्य निष्कृतिः ॥२५ शूद्राणां नोपवासः स्याच्छद्रो दानेन शुद्धयति । ब्रह्मकूर्चमहोरात्रं श्वपाकमपि शोधयेत् ।।२६ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । निर्दिष्टं पञ्चगव्यन्तु पवित्रं पापनाशनम् ।।२७ गोमूत्रं कृष्णवर्णायाः श्वेताया गोमयं हरेत् । पयश्च ताम्रवर्णाया रक्ताया दधि चोच्यते ॥२८ कपिलाया घृतं ग्राह्यं सर्व कापिलमेव वा। गोमूत्रस्य फलं दद्याध्नत्रिपलमुच्यते ॥२६ आज्यस्यैकपलं दद्यादङ्गुष्ठाभ्रन्तु गोमयम् । क्षीरं सप्तदलं दद्यात् पलमेकं कुशोदकम् ॥३० गायत्र्यागृह्य गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधिक्राग्नेति वै दधि ॥३१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy