SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ६७०. पराशरस्मृतिः । ॥ एकादशोऽध्यायः ॥ अभक्ष्यभक्षणप्रायश्चित्तवर्णनम् । अमेध्यरेतोगोमांसं चाण्डालान्नमथापिवा । यदि भुक्तन्तु विप्रेण कृच्छ चान्द्रायणञ्चरेत् ॥१ तथैव क्षत्रियो वैश्य स्तदर्द्धन्तु समाचरेत् । शूद्रोऽप्येवं यदा भुङ्क्ते प्राजापत्यं समाचरेत् ||२ पञ्चगव्यं पिवेन्द्रो ब्रह्मकूचं पिवेद् द्विजः । एकद्वित्रिचतुर्गाश्च दद्याद्विप्रादनुक्रमात् ॥३ शूद्रान्न सूतकस्यान्न मभोज्यस्यान्नमेव च । शङ्कितं प्रतिषिद्धानं पूर्वोच्छिष्टं तथैव च ॥४ यदि भुक्तन्तु विप्रेण अज्ञानादापदापि वा । ज्ञात्वा समाचरेत् कृच्छ्रं ब्रह्मकूर्च्चन्तु पावनम् ॥५ व्यालैर्न कुलमार्जार रन्नमुच्छिष्टितं यदा । तिलदर्भोदकैः प्रोक्ष्य शुद्धयते नात्र संशयः ॥ ६ शूद्रोऽप्यभोज्यं भुक्तान्नं पञ्चगव्येन शुद्धयति क्षत्रियो वापि वैश्यश्च प्राजापत्येन शुद्धयति ॥७ एकपंक्त्युपविष्टानां विप्राणां सहभोजने । यद्येोऽपि त्यजेत् पात्रं शेषमन्न न भोजयेत् ॥८ मोहाद्वा लोभतस्तत्र पंक्तावुच्छिष्टभोजने । प्रायश्चित्तं चरेद्विप्रः कृच्छ्रं सान्तपनन्तथा ॥ पीयूषश्वेतलसुनवृन्ताकफलगुञ्जनम् ॥१० [ एकादशी }
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy