________________
पराशरस्मृतिः।
[दशमोशङ्खपुष्पीलतामूलं पत्रश्च कुसुमं फलम् । सुवर्ण पञ्चगव्यष काथयित्वा पिवेजलम् ।।२१ एकभक्तं चरेत् पश्चाद्यावत् पुष्पवती भवेत् । व्रतं चरति तद्यावत्तावत् संवसतें वहिः ।।२२ प्रायश्चित्ते ततश्वीर्णे कुर्याद्ब्राह्मणभोजनम् । गोद्वयं दक्षिणां दद्याच्छुद्धिः पाराशरोऽप्रवीत् ॥२३ चातुर्वर्ण्यस्य नारीणां कृच्छचान्द्रायणं व्रतम् । यथा भूमिस्तथा नारी तस्मात्त न तु दूषयेत् ॥२४ वन्दिमाहेण या भुक्त्वा हत्वा बद्धा बलाद्भयात् । कृत्वा सान्तपनं कृच्छ् शुद्धत् पाराशरोऽब्रवीत् ॥२५ सद्भुक्ता तु या नारी नेच्छन्ती पापकर्मभिः । प्राजापत्येन शुद्धचेत ऋतुप्रस्रवणेन तु ॥२६ पतत्यर्द्ध शरीरस्य यस्य भार्या सुरां पिवेत् । पतितार्द्ध शरीरस्य निष्कृतिन विधीयते ॥२७ गायत्री जपमानस्तु कृच्छ्रे सान्तपनं चरेत् ।।२८ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकराव्युपवासश्च कृच्छ्रे सान्तपनं स्मृतम् ।।२६ जारेण जनयेद्गर्भ गते त्यक्ते मृते पतौ। तां त्यजेदपरे राष्ट्र पतितां पापकारिणीम् ॥३० ब्राह्मणी तु यदा गच्छेत् परपुंसा समन्विता । सा तु नष्टा विनिर्दिष्टा न तस्यां गमनं पुनः ॥३१