SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] अगम्यागमनप्रायश्चित्तवर्णनम् । ६६७ मातरं यदि गच्छत भगिनीं पुत्रिकान्तथा । एतास्तु मोहितो गत्वा त्रीन् कृच्छ्रांस्तु समाचरेत् ॥१० . चान्द्रायणत्रयं कुर्य्याच्छिश्नच्छेदेन शुद्धयति । मातृस्वसृगमे चैव आत्मभेदनिदर्शनम् ॥११ अज्ञानात्तान्तु यो गच्छेत् कुर्य्याचान्द्रायणद्वयम् । दशगोमिथुनन्दद्याच्छुद्धिः पाराशरोऽब्रवीत् ।।१२ पितृदारान् समारुह्य भातुराप्ताञ्च भ्रातृजाम् । गुरुपत्नी स्नुषाच्चैव भ्रातृभाऱ्या तथैव च ॥१३ मातुलानी सगोत्राञ्च प्राजापत्यत्रयञ्चरेत् । गोद्वयं दक्षिणां दत्त्वा शुद्धयते नात्र संशयः ।।१४ पशुवेश्यादिगमने महिष्युष्ट्रीकपीस्तथा । खरीञ्च शूकरी गत्वा प्राजापत्यं समाचरेत् ॥१५ गोगामी च त्रिरात्रेण गामेकं ब्राह्मणे ददत् । महिष्युष्ट्रीखरीगामी त्वहोरात्रेण शुद्धयति ॥१६ डामरे समरे वापि दुर्भिक्षे वा जनक्षये। वन्दिग्राहे भयार्ते वा सदा स्वस्त्री निरीक्षयेत् ।।१७ चाण्डालैः सह सम्पर्क या नारी कुरुते ततः। विप्रान् दश वरान् गत्वा स्वकं दोषं प्रकाशयेत् ॥१८ आकण्ठसम्मिते कूपे गोमयोदककर्दमे । तत्र स्थित्वा निराहारा त्वेकरात्रेण निष्क्रमेत् ॥१६ सशिखं वपनं कृत्वा भुञ्जीयाद्यावकौदनम् । त्रिरात्रमुपवासित्वा टेकरात्रं जलं वसेत् ॥२०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy