SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ गोसेवोपदेशवर्णनम् । मूर्कितः पतितो वापि दण्डेनाभिहतः स तु । उत्थितस्तु यदा गच्छेत् पश्च सप्त दशैव वा ॥११ प्रासं वा यदि गृह्णीयात्तोयं वापि पिवेद्यदि । पूर्वव्याध्युपसृष्टश्चेत् प्रायश्चित्तं न विद्यते ॥ १२ पिण्डस्थे पादमेकन्तु द्वौ पादौ गर्भसम्मिते । पादोनं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम् ॥ १३ पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि च । त्रिपादे तु शिखावर्ज सशिखन्तु निपातने ॥१४ पादे वस्त्रयुगचैव द्विपदे कांस्य भाजनम् । पादोने गोवृषं दद्यचतुर्थे गोद्वयं स्मृतम् ॥१५ निष्पन्नसर्वगात्रन्तु दृश्यते वा सचेतनम् । अङ्गप्रत्यङ्गसम्पन्ने द्विगुणं गोत्रतं चरेत् ॥ १६ पाषाणे नैव दण्डेन गावो येनाभिघातिताः । शृङ्गभृङ्गे चरेत् पादं द्वौ पादौ तेन यातने ॥ १७ लागूले कृच्छ्रपादन्तु द्वौ पादावस्थिभञ्जने । त्रिपादञ्चैव कर्णे तु चरेत् सर्वं निपातने ॥१८ शृङ्गभृस्थभङ्गे च कटिभङ्गे तथैव च । यदि जीवति षण्मासान् प्रायश्चित्तं न विद्यते ॥१६. ब्रणभङ्गे च कर्त्तव्यः स्नेहाभ्यङ्गस्तु पाणिना । . यवसचापहर्त्तव्यो यावद्दृढबलो भवेत् ॥२० यावत्सम्पूर्णसर्वाङ्गस्तावन्तं पोषयेन्नरः । गोरूपं ब्राह्मणस्याप्रे नमस्कृत्य विवर्जयेत् ॥ २१ ऽध्यायः ] ६६१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy