SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ [ नवमो पराशरस्मृतिः। ॥ नवमोऽध्यायः ॥ . गोसेवोपदेशवर्णनम् । गवां संरक्षणार्थाय न दुष्येद्रोधबन्धयोः । तद्बधन्तु न तं विद्यात् कामात् कामकृतन्तथा ॥१ अङ्गुष्ठमात्रः स्थूलो वा वाहुमात्रः प्रमाणतः । आर्द्रस्तु सपलाशश्च दण्ड इत्यभिधीयते ॥२ दण्डादूद्धं यदन्येन प्रहरेद्वा निपातयेत् । प्रायश्चित्तं चरेत् प्रोक्तं द्विगुणं गोबतचरेत् ॥३ रोधबन्धनयोक्ताणि घातनञ्च चतुर्विधम् । एकपादश्चरेद्रोधे द्विपादं बन्धने चरेत् ॥४ योक्त्रेषु पादहीनं स्याचरेत् सवं निपातने । गोचारे च गृहे वापि दुर्गेष्वपि समेष्वपि ॥५ नदीष्वपि समुद्रेषु खातेऽप्यथ दरीमुखे। दग्धदेशे स्थिताः गांवः स्तम्भनाद्रोध उच्यते ॥६ योक्त्रदामकडोरैश्च घण्टाभरणभूषणैः। गृहे वापि वने वापि बद्धा स्याद्गौमता यदि ।।७ तदेव बन्धनं विद्यात् कामाकामकृतश्च यत् । मृल्लेखे शकटे पंक्तौ भारे वा पीड़ितो नरैः॥८ गोपतिर्मृत्युमाप्नोति योक्त्रो भवति तद्बधः । मत्तः प्रमत्त उन्मत्तश्चेतनो वाप्यचेतनः ॥ कामाकामकृतक्रोधोदण्डैर्हन्यदथोपलैः । प्रहता वा मृता वापि तद्धि हेतुर्निपातने ॥१०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy