________________
ऽध्यायः] गोब्राह्मणहेतोरुपदेशः।
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥३६ आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथवा खले । भक्षयन्ती न कथयेत् पिवन्तम्चैव वत्सकम् ॥४० पिवन्तीषु पिवेत्तोयं सम्विशन्तीषु संविशेत् । पतितां पङ्कमग्नां वा सर्वप्राणैः समुद्धरेत् ॥४१ ब्राह्मणार्थे गवार्थे वा यस्तु प्राणान् परित्यजेत् । मुच्यते ब्रह्महत्याद्यैर्गोप्ता गोब्राह्मणस्य च ॥४२ गोबधस्यानुरूपेण प्राजापत्यं विनिर्दिशेत् । प्राजापत्यन्तु यत्कृच्छु विभजेसच्चतुर्विधम् ॥४३ एकाहमेकभक्ताशी एकाहं नक्तभोजनः । अयाचिताश्येकमहरेकाहं मारुताशनः ॥४४ दिनद्वयं चैकभक्तोद्विदिनं नक्तभोजनः । दिनद्वयमयाची स्याद्विदिनं मारुताशनः ।।४५ त्रिदिनञ्चकभक्ताशी त्रिदिनं नक्तभोजनः । दिनत्रयमयाची स्यात्रिदिनं मारुताशनः ॥४६ चतुरहन्त्वेकभक्ताशी चतुरहं नक्तभोजनः । चतुर्दिनमयाची स्याचतुरहं मारुताशनः ॥४७ प्रायश्चित्ते ततश्वीर्णे कुर्याद्ब्राह्मणभोजनम् । विप्राय दक्षिणां दद्यात् पवित्राणि जपेद्विजः ॥४८ ब्राह्मणान् भोजयित्वा तु गोनः शुद्धो न शंसयः ॥४६
इति पाराशरे धर्मशास्त्रेऽष्टमोऽध्यायः ।