SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ पराशरस्मृतिः। [अष्टमोये पठन्ति द्विजा वेदं पश्चयज्ञरताश्च ये। त्रैलोक्यं धारयन्त्येते पञ्चेन्द्रियरताश्रयाः ॥२८ सम्प्रणीतः श्मशानेषु दीप्तोऽग्निः सर्वभक्षकः । तथैव ज्ञानवान् विप्रः सर्वभक्षश्च दैवतम् ॥२६ अमेध्यानि च सर्वाणि प्रक्षिपन्त्युदके यथा । तथैव किल्विषं सर्व प्रक्षेप्तव्यं द्विजेऽमले ॥३० गायत्रीरहितो विप्रः शूद्रादप्यशुचिर्भवेत् । गायत्रीब्रह्मतत्त्वज्ञाः संपूज्यन्ते द्वितोत्तमाः ॥३१ दुःशीलोऽपि द्विजः पूज्यो न शूद्रो विजितेन्द्रियः । कः परीत्यज्य दुष्टाङ्गां दुहेच्छीलवती खरीम् ॥३२ धर्मशास्त्ररथारूढा वेदखड्गधरा द्विजाः । क्रीडार्थमपि यत्रू युः स धर्मः परमः स्मृतः ॥३३ चातुर्वेद्यो विकल्पी च अङ्गविद्धर्मपालकः । प्रपश्चाश्रमिणो मुख्याः परिषत् स्युर्दशावराः ॥३४ राज्ञाश्चानुमते चैव प्रायश्चित्तं द्विजो वदेत्। स्वयमेव न वक्तव्या प्रायश्चित्तस्य निष्कृतिः ॥३५ ब्राह्मणांश्च व्यतिक्रम्य राजा यत् कर्तुमिच्छति । तत्पापं शतधा भूत्वा राजानमुपगच्छति ॥३६ प्रायश्चित्तं सदा दद्याद्देवतायतनाग्रतः । आत्मानं पावयेत् पश्चाजपन् वै वेदमातरम् ॥३७ सशिखं वपनं कृत्वा त्रिसन्ध्यमवगाहनम् । गवां गोष्ठे बसेद्रात्रौ दिवा ताः समनुब्रजेत् ॥३८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy