________________
ऽध्यायः] निन्द्यब्राह्मणवर्णनम् ।
यथाश्मनि स्थितं तोयं मारुतार्केण शुद्धयति । एवं परिषदादेशान्नाशयेदेव दुष्कृतम् ॥१७ नैव गच्छति कर्तारं नैव गच्छति पर्षदम् । मारुतार्कादिसंयोगात् पापं नश्यति तोयवत् ॥१८ अनाहिताम्नयो येऽन्ये वेदवेदाङ्गपारगाः । पञ्च त्रयो वा धर्मज्ञाः परिषत् सा प्रकीर्तिता ॥१६ मुनीनामात्मविद्यानां द्विजानां यज्ञयाजिनाम् । वेदव्रतेषु स्नातानामेकोऽपि परिषद्भवेत् ॥२० । पञ्च पूर्व मया प्रोक्तस्तेषाम्चैव त्वसम्भवे । स्ववृत्तिपरितुष्टा ये परिषत् सा प्रकीचिंता ॥२१ अत ऊर्ध्वन्तु ये विप्राः केवलं नामधारकाः । परिषत्त्वं न तेषां वै सहस्रगुणितेष्वपि ॥२२ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । ब्राह्मणास्त्वनधीयानास्त्रयस्ते नामधारकाः ॥२३ ग्रामस्थानं यथा शून्यं यथा कूपस्तु निर्जलः । यथा हूतमनग्नौ च अमन्त्रो ब्राह्मणस्तथा ॥२४ यथा षण्डोऽफलः स्त्रीषु यथा गौरूषराफला । यथा चाज्ञेऽफलं दानं यथा विप्रोऽनृचोऽफलः ॥२५ चित्रं कर्म यथानेकैरङ्गरुन्मील्यते शनैः।। ब्राह्मण्यमपि तद्वत् स्यात् संस्कारैविधिपूर्वकः ॥२६ प्रायश्चित्तं प्रयच्छन्ति ये द्विजा नामधारकाः । ते द्विजा पापकर्माणः समेता नरकं ययुः ॥२७