SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ पराशरस्मृतिः। [नवमोयद्यसम्पूर्णस को हीनदेहो भवेत्तदा । गोधावकस्य तस्याद्धं प्रायश्चित्तं विनिर्दिशेत् ॥२२ काष्ठलोष्ट्रकपाषाणैः शस्त्रेणैवोद्धतो बलात् । व्यापादयति यो गान्तु तस्य शुद्धिं विनिर्दिशेत् ॥२३ चरेत् सान्तपनं काष्ठे प्राजापत्यन्तु लोष्ट्रके । तरकृच्छन्तु पाषाणे शस्त्रे चैवातिकृच्छकम् ॥२४ पञ्च सान्तपने गावः प्राजापत्ये तथा त्रयः । तप्तकृच्छ्रे भवेन्त्यष्ठावतिकृच्छ्रे त्रयोदश ॥२५ प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः ॥२६ अन्यत्राङ्कनलक्ष्मभ्यां वाहने मोहने तथा। सायं संयमनार्थःतु न दुष्येद्रोधबन्धयोः ॥२७ अतिदाहेऽतिवाहे च नासिकाभेदने तथा । मदीपर्वतसञ्चारे प्रायश्चित्तं विनिर्दिशेत् ॥२८ अतिदाहे चरेत्पादं द्वौ पादौ वाहने चरेत् । नासिके पादहीनं तु चरेत्सवं निपातने ॥२६ दहनाञ्च विपद्यत अबद्धो वापि यन्त्रितः । उक्तं पाराशरेणैव ह्येकपादं यथाविधि ॥३० रोधवन्धनयोक्त्रश्च भारः प्रहरणन्तथा । दुर्गप्रेरणयोक्त्रश्च निमित्तानि बधस्य षट् ॥३१ बन्धप्राशसुगुप्ताङ्गो म्रियते यदि गोपशुः । भवने तस्य नाशस्य पापं कृच्छ्रार्द्ध मर्हति ॥३२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy