SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ६५४ पराशरस्मृतिः । प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते । वेणुबल्कलचीराणt क्षौमकार्पासवाससाम् ||२६ और्णानां नेत्रपट्टानां जलाच्छौच विधीयते । तूलिकाद्युपधानानि पीतरक्ताम्बराणि च ॥ ३० शोषयित्वार्कतापेन प्रोक्षयित्वा शुचिर्भवेत् । मुञ्जोपस्करसूर्पाणां शाणस्य फलचर्मण: म् ॥ ३१ तृणकाष्ठादि रज्जूना मुदकप्रोक्षणं मतम् । मार्जारमक्षिकाकीटपतङ्गकृमिददु राः ॥ ३२ मेध्य मेध्यं स्पृरात्त्येव नोच्छिष्टान् मनुरब्रवीत् । भूमिं स्पृष्टा गतं तोयं यश्चाप्यन्योन्यविप्रुषः ।। ३३ भुकोच्छिष्टं तथास्नेहं नोच्छिष्टं मनुरब्रवीत् । ताम्बूलेफले चैव भुक्तस्नेहानुलेपने ॥३४ मधुपर्के च सोमे च नोच्छिष्टं मनुरब्रवीत् । रथ्याकर्द्दमतोयानि नावः पन्थास्तृणानि च ॥ ३५ मरुतार्केण शुद्धयन्ति पक्कचितानि च । अदुष्टा सन्तता धारा वातोद्वताश्च रेणवः ||३६ स्त्रियो वृद्धाश्च बालाश्च न दुष्यन्ति कदाचन । क्षुते निष्ठोवने चैव दन्तोच्छि तथानृते ॥ ३७ पतितानाञ्च सम्भाषे दक्षिणं श्रवणं हृशेत् । अग्निरापश्च वेदाश्च सोमसूर्यानिलास्तथा ॥ ३८ एते सर्वेऽपि विप्राणां श्रोत्रे तिष्ठन्ति दक्षिणे । प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ॥ ३६ [ सप्तमो
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy