________________
प्रायश्चित्तवर्णनम् ।
यदि नक्षिपते तोयं शरीरे यस्य जीर्य्यति । प्राजापत्यं न दातव्यं कृच्छ सान्तपनञ्चरेत् ||२६ चरेत् सान्तपनं विप्रः प्राजापत्यन्तु क्षत्रियः । तदर्द्धन्तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ॥ २७ भाण्डस्थम त्यजानान्तु जलं दधि पयः पिवेत् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव प्रमादतः ||२८ ब्रह्मकूपवासेन द्विजातीनान्तु निष्कृतिः । शूद्रश्य चोपवासेन तथा दानेन शक्तितः ॥ २६ ब्राह्मणो ज्ञानतो भुङ्क्ते चाण्डालान्नं कदाचन | गोमूत्रयावकाहाराद्दशरात्रेण शुध्यति || ३० एकैकं ग्रासमश्नीयाद्गोमूत्रयावकस्य च । दशाहनियमस्थस्य व्रतं तत्र विनिद्दिशेत् ||३१ अविज्ञातञ्च चाण्डालः सन्तिष्ठत्तस्य वेश्मनि । विज्ञाते तूपसंन्यस्य द्विजाः कुर्वन्त्यनुनहम् ||३२ ऋषिक्ताच्छता धर्मास्त्रायते वेदपावनाः । पतन्तमुद्धरेयुस्ते धर्मज्ञाः पापसङ्कटात् ||३३ दध्ना च सर्पिषा चैव क्षीरगोमूत्रयावकम् । भुञ्जीत सह सर्वेश्च त्रिलन्ध्यमवगाहनम् ॥३४ त्र्यहं भुञ्जीत दध्ना च व्यहं भुञ्जीत सर्पिषा । त्र्यहं क्षीरेण भुञ्जीत एकैकेन दिनत्रयम् ||३५ भावदुष्टं न भुञ्जीयान्नोच्छिष्टं कृमिदूषितम् । त्रिपलं दधिदुग्धस्य पलमेकन्तु सर्पिषः ॥३६
ध्यायः ]
६४७