SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ६४६ पराशरस्मृतिः। [षष्ठोऽशिल्पिनं कारुकं शूद्रं स्त्रियं वा यस्तु घातयेत् । प्राजापत्यद्वयं कुर्याद्वृषैकादशदक्षिणा ।।१५ वैश्यं वा क्षत्रियं वापि निर्दोषमभिघातयेत् । सोऽतिकद्वयं कुर्य्यागोविंशं दक्षिणां ददेत् ॥१६ वैश्यं शूद्रं क्रियासक्तं विकर्मस्थं द्विजोत्तमम् । हत्वा चान्द्रायणं कुर्य्याहृद्यागोत्रिंशदक्षिणाम् ॥१७ क्षत्रियेणापि वैश्येन शूद्रेणैवेतरेण वा। . चाण्डालबधसंप्राप्तः कृच्छ्रार्द्धन विशुध्यति ॥१८ चौराः श्वपाकचाण्डाला विप्रेणापि हता यदि । अहोरात्रोपवासेन प्राणायामेन शुध्यति ॥१६ श्वपाकं वापि चाण्डालं विप्रः सम्भाषते यदि । द्विजसम्भाषणं कुर्याद्गायत्री वा सकृनपेत् ॥२० चाण्डालैः .सह सुप्तन्तु त्रिरात्रमुपवासयेत् । चाण्डालैकपथङ्गत्वा गायत्रीस्मरणाच्छुचिः ॥२१ चाण्डालदर्शनेनैव आदित्यमवलोकयेत्। चाण्डालस्पर्शने चैव सचैल स्नानमाचरेत् ॥२२ चाण्डालखातवापीषु पीत्वा सलिलमग्रजः । अज्ञानाच्चैव नक्तेन त्वहोरात्रेण शुद्रयति ॥२३ चाण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम् । गोमूत्रयावकाहारत्रिरात्राच्छुद्धिमा नुयात् ॥२४ चाण्डालोदकभाण्डे तु अज्ञानात् पिबते जलम् । तत्क्षणात क्षिपते यस्तु प्राजापत्यं समाचरेत् ॥२५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy