________________
[द्वितीयो
मनुस्मृतिः। कार्णरौरववास्तानि चर्माणि ब्रह्मचारिणः । वसीरनानुपूर्कोण शाणक्षौमाविकानि च ॥४१ मौजी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला। क्षत्रियस्य तु मौर्बी ज्या वैश्यस्य शणतान्तवी ।। ४२ मुखालाभे तु कर्तव्याः कुशाश्मन्तकवल्वजैः। त्रिवृता प्रन्थिनकेन त्रिभिः पंचभिरेव वा ॥ ४३ कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत्। . शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ।। ४४ ब्राह्मणो बैल्वपालाशी क्षत्रियो बाटखादिरौ । पैलवौदुम्वरौ वैश्यो दण्डानहन्ति धर्मतः॥ ४५ केशान्तिको ब्राह्मणस्य दण्डः कायः प्रमाणतः । ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः॥४६ भृजवस्तै तु सर्वे स्युरखणाः सौम्यदर्शनाः । अनुगकरा नृणां सत्त्वचोऽनाग्निदूषिताः ।। ४७ प्रतिगृह्य प्सितं दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परीत्याग्निं चरेद्भक्ष यथाविधि ॥ ४८ भवत्पूर्व चरेद्भक्षमुपनीतो द्विजोत्तमः। भवन्मध्यां तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ ४६ मातरं वा स्वसारं वा मातुर्वा भगिनी निजाम् । भिक्षेत भिक्षा प्रथमं या चैनं नावमानयेत् ॥ ५० समाहृत्य तु तद्भक्षं यावदन्नममायया । निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः॥ ५१