________________
ध्यायः]
ब्रह्मचर्यवर्णनम् । आयुष्यं प्राङ्मुखो भुक्त यशस्यं दक्षिणामुखः । । श्रियं प्रत्यङ्मुखो kङ्क्त भृतं भुङ्क्त छु दङ्मुखः ॥५२ उपस्पृश्य द्विजो नित्यमन्नमद्यात्समाहितः । भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् ।। ५३ पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् । दृष्ट्वा हृष्येत् प्रमोदेश्च प्रतिनन्देच सर्वशः ।। ५४ पुजितं ह्यशनं नित्वं बलमूर्ज च यच्छति । अपूजितं तु तद्भुक्तमुभयं नाशयदिदम् ॥ ५५ .. नोच्छिष्ट कस्यचिद्दद्यान्नाद्याच्चैव तथान्तरा । नचैवात्यशनं कुर्यान्न चोच्छिष्टः कचिद्वजेत् ॥ ५६ अनारोग्यमनायुष्यमस्वयं चातिभोजनम् । अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ।। ५७ ब्राह्मण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् । . कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन ।। ५८ अङ्गष्ठमूलस्य तले ब्राह्म तीर्थं प्रचक्षते । कायमङ्ग लिमूलेऽयं देवं पित्रथं तयोरधः ॥ ५६ . त्रिराचामेदपः पूर्व द्विः प्रमृज्यात्ततो मुखम् । खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥६० . अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् । शौचप्सुः सर्वदाचामेदेकान्ते प्रागुदङ्मुखः ॥ ६१ हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः। वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ॥ ६२