SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ज्यायः] ब्रह्मचर्यवर्णनम् । नामधेयं दशम्या तु द्वादश्यां वास्य कारयेत् । पुण्ये तिथौ मुहूर्त वा नक्षत्रे वा गुगाविते ॥३० मङ्गल्यं ब्राह्मगस्य स्यात् क्षत्रियस्य बलान्वितम् । वैश्यस्य धनसंयुक्त शूद्रस्य तु जुगुप्सितम् ।। ३१ शर्मवबाझगस्य स्याद्राज्ञो रक्षासमन्वितम । वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ।। ३२ स्त्रीणां सुखोयम र विस्पष्टार्थ मनोहरम् । मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ।। ३३ चतुर्थे मासि कर्तव्यं शिशोनिष्क्रमणं गृहात् । षष्ठेऽन्नप्राशनं मासि यद्वष्टं मङ्गलं कुले ।। ३४ चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः। प्रथमेऊदे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥३५ गर्भाष्टमेऽन्दे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञी गर्मीत्तु द्वादशे विशः ।। ३६ ब्रह्मवर्चसकामस्य कार्य विप्रस्य पंचमे । राज्ञो बेलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे ।। ३७ आ षोड़शाद्ब्राह्मणस्य सावित्री नातिवर्तते । आ द्वाविंशात् क्षत्रबन्धोराचविंशतेविंशः ।।३८ अत ऊद्ध वं त्रयोऽप्येते यथाकालमसंस्कृताः। सावित्रीपतिता नात्या भवन्त्यार्यविगर्हिताः ।। ३६ नैतैरपूतैर्विधिवदापद्यपि हि कर्हिचित् । ब्राह्मान् यौनांश्च सन्वन्धानाचरेब्राह्मणः सह ॥ ४०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy