SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ [द्वितीय मनुस्मृतिः। कुरुक्षेत्रं च मत्स्याश्च पंचालाः शूरसेनकाः । एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः॥१६ एतद्देशप्रसूतस्य सकाशादप्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ।।२० हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि । प्रत्यगेव प्रयागाच मध्यदेशः प्रकीर्तितः ।। २२ आ समुद्रात्तु वे पूर्वादा समुद्रात्तु पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावतं विदुर्बुधाः ।। २२ कृष्णसारस्तु चरति मृगो यत्र स्वभावतः। स शेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः ।। २३ एतान् द्विजातयो देशान् संश्रयेरन् प्रयत्नतः। शूद्रस्तु यस्मिन् कस्मिन् वा निवसेवृत्तिकर्षितः ॥२४ एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता। सम्भवश्वास्य सर्वस्य वर्णधर्मान् निवोधत ।। २५ . . वैदिकैः कर्मभिः पुण्यै नषेकादिद्विजन्मनाम् । कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ।। २६ गार्भोंमैर्जातकर्मचौड़मौजीनिबन्धनैः । बैजिकं गाभिकं चैनो द्विजानामपमृज्यते ॥ २७ स्वाध्यायेन तै)मेस्त्रैविद्य नेज्यया सुतैः। महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ २८ प्राङ्नाभिवर्धनात् पुंसो जातकर्म विधीयते। मन्त्रवत् प्राशनं चास्य हिरण्यमधुसर्पिषाम् ।। २६ - --
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy