SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ धर्मतत्वविचारः । सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा । श्रुतिप्रमाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥ ८ श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन् हि मानवः । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥६ श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्र ं तु वै स्मृतिः । ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्वभौ ॥१० योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्विजः । स साधुभिर्वहिष्कार्य्यो नास्तिको वेदनिन्दकः || ११ वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतचतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ १२ अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते । ऽध्यायः ] १३ धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥१३ श्रुतिद्वधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ । उभावपि हि तौ धर्मों सम्यगुक्तौ मनीषिभिः ॥ १४ उदितेऽनुदिते चैव समयाध्युषिते तथा । सर्वथा वर्त्तते यज्ञ इतीयं वैदिकी श्रुतिः ।।१५ निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्र ऽधिकारोऽस्मिन् ज्ञ यो नान्यस्य कस्यचित् ॥१६ सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावतं प्रचक्षते ||१७ तस्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते ॥ १८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy