________________
मनुस्मृतिः। द्वितीयो • यथेदमुक्तवाञ्छास्त्र पुरा पृष्टो मनुर्मया।
तथैदं यूयमप्यद्य मन्सकाशान्निवोधत ॥११६ इति मानवे धर्मशास्त्र भूगुप्रोक्तायां मनुस्मृत्यां प्रथमोऽध्यायः।
द्वितीयाऽध्यायः।
विद्वद्भिः सेवितः सद्भिनित्यमद्वषरागिभिः।। हृदयेनाभ्यनुज्ञातो यो धर्मस्तन्निवोधत ॥१ कामात्मता न प्रशस्ता न चैवेहास्त्यकामता। काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥२ सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः। व्रतानि यमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः॥३ अकामस्य क्रिया काचित् दृश्यते नेह कहिंचित् । यद् यद्धि कुरुते किंचित् तत्तत् कामस्य चेष्टितम् ॥४ तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम् । यथा सङ्कल्पिताश्चेह सर्वान् कामान् समश्नुते ॥ ५ वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ ६ यः कश्चित् कस्यचिद्धर्मो मनुना परिकीर्तितः । स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः॥७