SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] सृष्ट्य त्पत्तिवर्णनम् । तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमेवाहुनिमेकं कलौ युगे ।।८६ । सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः। मुखवाहूरुपज्जानां पृथक् काण्यकल्पयत् ।। ८७ अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहञ्चैव ब्राह्मणानामकल्पयत् ॥ ८८ प्रजानां रक्षणं दानमिज्याऽध्ययनमेव च । विषयेष्वप्रसक्तिश्च क्षत्रियस्य समादिशत् ।।८६ पशूनां रक्षणं दानमिज्याऽध्ययनमेव च । वणिक्पथं कुसीदश्च वैश्यस्य कृषिमेव च ।। ६० एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् । एतेषामेव वर्णानां शुश्रूषामनसूयया ॥६१ ऊवं नाभेमध्यतरः पुरुषः परिकीर्तितः। तस्मान्मध्यतमं त्वस्य मुखमुक्त स्वयम्भूवा ।। १२ उत्तमाङ्गोद्भवाज्यौष्ठ्याद्ब्रह्मणश्चैव धारणात् । सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ ६३ तं हि स्वयम्भूः स्वादास्यात्तपस्तप्त्वाऽऽदितोऽसृजत् । हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥ १४ यस्यास्येन सदाऽश्नन्ति हव्यानि त्रिदिवौकसः। कव्यानि चैव पितरः किंभूतमधिकं ततः ।। ६५ भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठाः नरेषु ब्राह्मणाः स्मृताः ।। ६६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy