SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ मनुस्मृतिः। [प्रथमो मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया । आकाशं जायते तस्मात् तस्य शब्दं गुणं स्मृतम् ।।७५ आकाशात्तु विकुर्वाणात् सर्वगन्धवहः शुचिः । बलवान् जायते वायुः स वै स्पर्शगुणो मतः ।।७६ वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् ! ज्योतिरुत्पद्यते भास्वत्तद्र पगुणमुच्यते ॥७७ ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः । अद्भयो गन्धगुणा भूमिरित्येषा सृष्ठिरादितः ।।७८ यत् प्रागद्वादशसाहस्रमुदितं दैविकं युगम् । तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ।।७६ मन्वन्तराण्यसंख्यानि सर्गः संहार एव च । क्रीडन्निवैतत् कुरुते परमेष्ठी पुनः पुनः ।।८० चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे। नाधर्मेणागमः कश्चिन्मनुष्यान् प्रति वर्तते ।।८१ इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः।। चौरिकानृतमायाभिधर्माश्चापैति पादशः ।।८२ अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । कते त्रेतादिषु वषां वयोह्रसति पादशः ।।८३ वेदोक्तमायुर्मत्यांनामाशिषश्चैव कर्मणाम् । फलन्त्यनुयुगं लोके प्रभावाश्च शरीरिणाम ॥८४ अन्ये कृतयुगे धास्त्रेतायां द्वापरे परे । अन्ये कलियुगें नृणां युगहासानुरूपतः ।।८५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy