________________
ध्यायः ]
सृष्ट्य त्पत्तिवर्णनम् ।
निमेषा दश चाष्टौ च काष्ठा त्रिंशन्त ताः कला । त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः ।। ६४ अहोरात्रे विभजते सूर्यो मानुषदैविके । रात्रिः स्वप्नाय भूतानां चेष्टायै कर्म्मणामहः ।। ६५ पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः । कर्म्मचेास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी ।। ६६ देवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः । अहस्तत्रोद्गयनं रात्रिः स्यादक्षिणायनम् ॥ ६७ ब्राह्मस्य तु क्षपाहस्य यत् प्रमाणं समासतः । एकैकशो युगानां तु क्रमशस्तन्निबोधत ॥ ६८ चत्वार्याहुः सहस्राणि वर्षाणां तत् कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ ६६ इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥७० यदेतत् परिसङ्ख्यातमादादेव चतुर्युगम् । एतद्द्वादशसाहस्रं देवानां युगमुच्यते ॥७१ देविकानां युगानां तु सहस्रं परिसङ्ख्यया । ब्रह्ममेकमज्ञेयं तावतीं रात्रिमेव च ।।७२
युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः । रात्रिश्व तावतीमेव तेऽहोरात्रविदो जनाः ॥७३ तस्य सोऽहर्निशस्यान्ते प्रसुनः प्रतिबुद्धयते । प्रतिबुद्धश्व सृजति मनः सदसदात्मकम ॥७४