SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] सृष्ट्युत्पत्तिवर्णनम्। येषां तु यादृशं कर्म भूतानामिह कीर्तितम् । तत्तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि ॥ ४२ पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः॥४३ अण्डजाः पक्षिणः सर्पा नका मत्स्याश्च कच्छपाः । यानि चैवं प्रकाराणि स्थलजान्यौदकानि च ॥४४ स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । ऊष्मणश्वोपजायन्ते यच्चान्यत्किंचिदीदृशम ॥ ४५ उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः। ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः॥ ४६ अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः। पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः॥ ४७ गुच्छगुल्मं तु विविधं तथैव तृणजातयः । बीजकाण्डरूहाण्येव प्रताना वल्लय एव च ।। ४८ तमसा बहुरूपेण वेष्टिताः कर्महेतुना । अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः ॥ ४६ एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः। घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि ।। ५० एवं सर्व स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः । आत्मन्यन्तर्दधे भूयः कालं कालेन पीड़यन् ॥ ५१ यदा स देवो जागर्ति तदेवं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा संवं निमीलति ॥ ५२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy